या कुन्देन्दुतुषारहारधवला या शुभ्रवस्त्रावृता या
वीणावरदण्डमण्डितकरा या श्वेतपद्मासना ।
या ब्रह्माच्युतशङ्करप्रभृतिभिर्देवैः सद वन्दिता सा मां पातु सरस्वती भगवती निःशेषजाड्यापहा ॥
या ब्रह्माच्युतशङ्करप्रभृतिभिर्देवैः सद वन्दिता सा मां पातु सरस्वती भगवती निःशेषजाड्यापहा ॥
युक्तियुक्तं वचो ग्राह्यं बालादपि शुकादपि ।
अयुक्तमपि न ग्राह्यं साक्षादपि बृहस्पतेः ॥
अयुक्तमपि न ग्राह्यं साक्षादपि बृहस्पतेः ॥
युक्तियुक्तं वचो ग्राह्यं बालादपि शुकादपि ।
युक्तिहीनं वचस्त्याज्यं वृद्धादपि शुकादपि ॥
युक्तिहीनं वचस्त्याज्यं वृद्धादपि शुकादपि ॥
पुराणमित्येव न साधु सर्वं
न चापि काव्यं नवमित्यवद्यम्।
सन्तः परीक्ष्यान्यतरद्भजन्ते मूढः परप्रत्ययनेयबुद्धिः॥
सन्तः परीक्ष्यान्यतरद्भजन्ते मूढः परप्रत्ययनेयबुद्धिः॥
अपराद्धांस्तु सुस्निग्धान् स्नेहोक्त्या मानदानत:।
साधयेद् भेददण्डाभ्यां यथायोगेन चापरान्॥
साधयेद् भेददण्डाभ्यां यथायोगेन चापरान्॥
को लाभो गुणिसंगम: किमसुखं प्राज्ञेतरै: संगति: का
हानि: समयच्युतिर्निपुणता का धर्मतत्त्वे रति:।
क: शूरो विजितेन्द्रिय: प्रियतमा कानुव्रता किं धनं विद्या किं सुखमप्रवासगमनं राज्यं किमाज्ञाफलम्॥
क: शूरो विजितेन्द्रिय: प्रियतमा कानुव्रता किं धनं विद्या किं सुखमप्रवासगमनं राज्यं किमाज्ञाफलम्॥
सिंह: शिशुरपि निपतति
मदमलिनकपोलभित्तिषु गजेषु ।
प्रकृतिरियं सत्त्ववतां न खलु वयस्तेजसो हेतु:॥
प्रकृतिरियं सत्त्ववतां न खलु वयस्तेजसो हेतु:॥
विद्या ददाति विनयं
विनयाद्याति पात्रताम् ।
पात्रत्वाद्धनमाप्नोति धनाद्धर्मं ततः सुखम् ॥
पात्रत्वाद्धनमाप्नोति धनाद्धर्मं ततः सुखम् ॥
स्वगृहे पूज्यते मूर्खः स्वग्रामे पूज्यते प्रभुः ।
स्वदेशे पूज्यते राजा विद्वान् सर्वत्र पूज्यते ॥
वरमेको गुणी पुत्रो न च मूर्खशतान्यपि ।
एकश्चन्द्रस्तमो हन्ति न च तारगणोऽपिच ॥
कार्यार्थी भजते लोकः यावत्
कार्यं न सिध्यति॥
उत्तीर्णे च परे पारे
नौकायाः किं प्रयोजनम्॥
मित्रस्य मा चक्षुषा सर्वाणि भूतानि समीक्षन्ताम् ।
मित्रस्याहं चक्षुषा सर्वाणि भूतानि समीक्षे
मित्रस्य चक्षुषा समीक्षामहे ॥
अग्निहोत्रं गृहं क्षेत्रं गर्भिणीं वृद्धबालकौ।
रिक्तहस्तेन नोपेयाद् राजानं देवतां गुरुम्॥
रिक्तहस्तेन नोपेयाद् राजानं देवतां गुरुम्॥
यदचेतनोऽपि पादै: स्पृष्ट:
प्रज्वलति सवितुरिनकान्त: ।
तत्तेजस्वी पुरुष: परकृतविकृतिं
कथं सहते ॥
संसार विषवृक्षस्य द्वे फले ह्यमृतोपमे ।
सुभाषित रसस्वादः सङ्गतिः सुजनैः सह ॥
दानं भोगो नाशस्तिस्रो गतयो भवन्ति वित्तस्य ।
यो न ददाति न भुङ्क्ते तस्य तृतीया गतिर्भवति ॥
अयं निज: परो वेति गणना
लघुचेतसाम् ।
उदारचरितानां तु वसुधैव कुटुम्बकम्
॥
गुरुर्बन्धुरबन्धूनां गुरुश्चक्षुरचक्षुषां ।
गुरुः पिता च माता च सर्वेषां न्यायवर्तिनां ॥
विद्या नाम नरस्य रुपमधिकं
प्रच्छन्नगुप्तं धनं
विद्या भोगकरी यशःसुखकारी
विद्या गुरुणां गुरुः ।
विद्या बन्धुजनो विदेशगमने
विद्या परं दैवतं
विद्या राजसु पूज्यते न हि
धनं विद्याविहीनः पशुः ॥
जलबिन्दुनिपातेन क्रमशः पूर्यते घटः ।
स हेतुः सर्वविद्यानां धर्मस्य च धनस्य च ॥
न मांसभक्षणे दोषो न मद्ये
न च मैथुने ।
प्रवृत्तिरेषा भूतानां
निवृत्तिस्तु महाफला ॥
तत्र मित्र न वस्तव्यं यत्र नास्ति चतुष्टयं ।
ऋणदाता च वैद्यश्च श्रोत्रियः सजला नदी ॥
धर्म एव हतो हन्ति धर्मो रक्षति रक्षितः ।
तस्माद्धर्मो न हन्तव्यः मानो धर्मो हतोवाधीत् ॥
काव्यशास्त्रविनोदेन कालो
गच्छति धीमताम् ।
व्यसनेन च मूर्खाणां
निद्रया कलहेन वा ॥
सत्यस्य वचनं श्रेय: सत्यादपि हितंवदेत् ।
यद्भूतहितमत्यन्तं ऐतत् सत्यं मतं मम ॥
नरत्वं दुर्लभं लोके विद्या तत्र सुदुर्लभा।
शीलं च दुर्लभं तत्र विनयस्तत्र सुदुर्लभः॥
शीलं च दुर्लभं तत्र विनयस्तत्र सुदुर्लभः॥
न भूतपूर्वं न कदापि वार्ता
हेम्न: कुरंगो न कदापि दॄष्ट: ।
तथापि तॄष्णा रघुनन्दनस्य
विनाशकाले विपरीत बुद्धि: ॥
कोऽतिभारः समर्थानां किं दूरं व्यवसायिनाम् ।
को विदेशस्तु विदुषां कः परः प्रियवादिनाम् ॥
येषां न विद्या न तपो न दानं ज्ञानं न शीलं न गुणो न धर्मः
।
ते मत्र्यलोके भुवि भारभूताः मनुष्यरूपेण मृगाश्र्चरन्ति ॥
असारे खलु संसारे सारं श्वशुरमन्दिरम् ।
हरो हिमालये शेते हरिः शेते महोदधौ ॥
हरो हिमालये शेते हरिः शेते महोदधौ ॥
पात्रे त्यागी गुणे रागी
संविभागी च बंधुषु ।
शास्त्रे बोद्धा रणे योद्धा
पुरुषः पंचलक्षणः ॥
पिबन्ति नद्यः स्वयमेव
नाम्भः स्वयं न खादन्ति फलानि वृक्षाः ।
नादन्ति सस्यं खलु वारिवाहाः परोपकाराय सतां विभूतयः ॥
नादन्ति सस्यं खलु वारिवाहाः परोपकाराय सतां विभूतयः ॥
प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः ।
तस्मात्तदेव वक्तव्यं वचने का दारिद्रता ॥
उद्यमेन हि सिद्धयन्ति कार्याणि न मनोरथैः ।
न हि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः ॥
न हि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः ॥
जननी जन्मभूमिश्च जाह्ननवी
च जनार्दनः ।
जनकः पञ्चमश्चैव जकाराः पञ्च दुर्लभाः ॥
जनकः पञ्चमश्चैव जकाराः पञ्च दुर्लभाः ॥
आचारः परमो धर्मः आचारः परमं तपः ।
आचारः परमं ज्ञानम् आचारात् किं न साध्यते ॥
आचारः परमं ज्ञानम् आचारात् किं न साध्यते ॥
परोपकाराय फलन्ति वृक्षाः परोपकाराय वहन्ति नद्यः ।
परोपकाराय दुहन्ति गावः परोपकारार्थमिदं शरिरम् ॥
अलसस्य कुतः विद्या अविद्यस्य कुतः धनम् ।
अधनस्य कुतः मित्रम् अमपित्रस्य कुतः सुखम् ॥
अपि स्वर्णमयी लंका न मे लक्षमण रोचते ।
जननी जनमभूमिश्च स्वर्गादपि गरियसी ॥
ટિપ્પણીઓ નથી:
ટિપ્પણી પોસ્ટ કરો